Devi Mahatmyam ! !

Parayana Slokas!!

Aparadha kshamapana Slokas||

||om tat sat||

अपराधक्षमापण स्तोत्रः:

ओम् अपराध शतं कृत्वा जगदंबेति चोच्चरेत्।
यां गतिं समवाप्नॊटि न तां ब्रह्मादयः सुराः॥1||

सापरोधोस्मि शरणं प्राप्तस्त्वां जगदम्बिके ।
इदानीमनुकम्प्योsहं यथेच्छसि तथाकुरु॥2||

अज्ञानाद्विस्मृते भ्रान्त्या यन्नूनमध्कं कृतम्।
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि॥3||

कामेश्वरी जगन्मातः सच्चिदानन्द विग्रहे ।
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि॥4||

सर्वरूपमयी देवी सर्वं देवीमयं जगत्।
अतोsहं विश्वरूपां त्वां नमामि परमेश्वरि॥5||

यदक्षर पदभ्रष्ठं मात्राहीनं च यत् भवेत् ।
पूणं भवतु तत्सर्वं त्वत्प्रासादान्महेश्वरि॥6||

यदत्र पाठे जगदम्बिके मया
विसर्गबिन्दक्षरहीन मीरितम्।
तदस्तु सम्पूर्णतमं प्रसादतः
संकल्पसिद्दिश्च सदैव जायताम्॥7||

यन्मात्राबिन्दुद्वितयपदपदद्वन्द्व वर्णादिहीनं।
भक्त्याभक्त्यानुपूर्वं प्रसभकृतिवशात् व्यक्तमव्यक्तमम्ब ॥8||

मोहात् अज्ञानतोवा पठितमपठितं वा साम्प्रत ते स्तवेsस्मिन्।
तत्सर्वं सांगमासां भगवति वरदे त्वत्प्रसादात् प्रसीद॥9||

प्रसीद भगवत्यम्ब प्रसीद भक्तवत्सले।
प्रसादं कुरुमे देवी दुर्गेदेवी नमोsस्तुते॥10||

इति अपराधक्षमापण स्तोत्रं समाप्तं॥
॥ओं तत् सत्॥